"कृतद्विर्वचनानां धातूनामेकाचाम्()" इति।
कुत एतदवसितम्()? एकाज्ग्रहणसामथ्र्यात्()। न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति, यन्निवृत्त्यर्थमेकान्ग्रहणं क्रियते। ननु च जागर्त्तिरस्ति,
अतस्तन्निवृत्त्यर्थ तत्? स्यात्()? नैतदस्ति; न ह्रेकमूदाहरणं प्रति योगारम्भं प्रयोजयति।
यद्येतत्? प्रयोजनं स्यात्(), "जाग्रो न" इत्येवं ब्राऊयात्()। तदाप्ययमर्थः--प्रतिपत्तिगौरवं परिह्मतं भवति।
ननु चोर्णोतेर्निवृत्त्यर्थमपि स्यात्()? नैतत्(); उक्तं हि प्राक्--"वाच्यौउर्णोर्णुवद्भावः" (कारिका।७।२।११) इति। तस्माद्युक्तमुक्तम्()--कृतद्विर्वचनानां धातूनामेकाचामिति। "आदिवान्()ाशिवान्()" इति। "अद भक्षणे" (धा।पा।१०११), "अश भोजने" (धा।पा।१५२३)। लिटः "क्वसुश्च"
३।२।१०७ इति क्वसुः, द्विर्वचनम्(), अभ्यासकार्थञ्च, "अत आदेः
७।४।७० इति दीर्घत्वम्()। सवर्णदीर्घत्वम्(), इट्(), "उगिदचम्()"
७।२।७० इति नुम्(), "सान्तमहतः"
६।४।१० इत्यादिना दीर्घः, हल्ङ्यादि-
६।१।६६संयोगान्तलोपौ
८।२।२३। "पेचिवन्(), शोकिवान्()" इति। "अत एकहल्मध्ये"
६।४।१२० इत्यादिनैत्त्वाभ्यासलोपौ। "धात्वभ्यासयोरेकादेशे कृते" इत्यादि। ननु च षाष्ठिके द्विर्षचनविधौ "द्विष्प्रयोगो द्विर्वचनम्()" इत्येव पक्षो वृत्तिकारेणाश्रितः, एवं चाकृते दात्वभ्यासयोरेकदेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचना अप्येत एकाचो भवन्ति। स्थाने द्विर्वचने हि शब्दान्तरमनेकाजतिदिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्, न तु द्विष्प्रयोगे द्विर्वचने; तत्र हि स एव धातुर्द्विरुच्यते, न चासौ शतकृत्वोऽप्युच्चार्यमाण एकाच्त्वं जहाति, किंपुनर्द्धिरुच्यमानः,
तत्? क्रिमुच्यते--धात्वभ्यासयोरेकादेश एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्तीति? आवृत्तिकृतमेकाचो बेदमाश्रित्यैवमुक्तमित्यदोषः।
भवति हि धर्मभेदादपि धर्मिणो भेदव्यवहारः? तथा हि,
वक्तारो वदन्ति--परुद्भावान्? पटुरासीत्(), पटुतरश्चैषमः, पटुतमः परारि, सोऽन्य एवासि संवृत्त इति। अथ वा--स्थाने द्विर्वचनपक्षोऽपि तत्राश्रितः, द्विष्प्रयोगश्च द्विर्वचनमिति कृत्वा।
चकारात्? स्थाने द्विर्वचनमपीति स्थाने द्विर्वचनपक्षस्यापि तत्र सूचनात्()। ये तु तत्पक्षभाविनो दोषस्ते तत्र प्रतिविहिता एव। "तस्थिवान्()" इति। "शर्पूर्वाः खथः"
७।४।६१ इति ख्यः शेषः; "अतो लोप इटि च"
६।४।६४ इत्याकारलोपः। "जक्षिवान्()" इति। पूर्ववददेर्घस्लादेशः,
इट्? "गमहन"
६।४।९८ इत्यादिनोपधालोपः, "कुहोश्चुः"
७।४।६२ इति चुत्वम्()--धकारस्य झकारः, "अभ्यासे चर्च्च"
८।४।५३ इति झकारस्य जकारः। परस्य धकारस्य "खरि च"
८।४।५४ इति चत्र्वम्()--ककारः, "शासिवसि"
८।३।६० इत्यादिना षत्वम्()।
ननु चात्र क्रादिनियमादिडागमः सिद्ध एव,
तत् किमर्थोऽयमारम्भः? इत्याह--"सिद्धे" इत्यादि।
"क्रादिनियमात्? प्रसक्तः" इत्यादिना "सिद्धे सत्यारम्भो नियमार्थः" (कात।प।५९) इत्येतदेव स्पष्टीकरोति। "प्रसक्तः" इति। प्राप्त इत्यर्थः। "नियम्यते" इति। धात्वन्तरेभ्यो व्यावर्त्त्येकाजादिष्वेव व्यवस्थाप्यत इत्यर्थः।
अथाद्ग्रहणं किमर्थम्(), यावताऽकारान्ता अप्यतो लोपे कृते कृतद्विर्वचना एकाचो भवन्त्येव,
तत्रैकाज्ग्रहणेनैव सिद्धम्()? इत्याह--"आद्ग्रहणमनेकाज्ग्रहणार्थम्()" इति।
कथं पुनस्तेषामनेकाच्त्वम्()? इत्यत आह--"द्विर्वचने" इत्यादि। इण्निमित्तत्वादाकारलोपस्येटि सति तेषामाकारलोपेन भवितव्यम्(), नासति,
अतो यावदिण्न क्रियते तावदाकारलोपाभावात्? कृतद्विर्वचना एतेऽनेकाच इत्यसत्याद्ग्रहणे ["इत्यसत्यादिग्रहणे"--इति मुद्रितः पाठः] तेषां ग्रहणं न स्यात्()। तस्मादनेकाजर्थमाद्ग्रहणं कत्र्तव्यम्()।
यद्येवम्(),
दरिद्रातेरपीट्? प्रसज्येत? इत्यत आह--"दरिद्रातेस्तु" इत्यादि। दरिद्रातेः क्वसो सम्भव एव नास्ति, यतः "कास्यनेकान्ग्रहणम्()" (वा।३०५) इति वचनाद्दरिद्रातेरामा भवितव्यम्(), त()स्मश्च सति "आमः" (२।४।
८१) इति लेर्लुका भवितव्यम्? तत्कुतोऽयमिट्प्रसङ्गः! "दरिद्राञ्चकर" इति। "कृञ्चानुप्रयुज्यते"
३।१।४० इति लिट्परस्य कृञोऽनुप्रयोगः। अभ्युपगम्यपि दरिद्रातेरामोऽभावं परीहारान्तरमाह--"अथाप्याम्न क्रियते" इत्यादि। आकारान्तानां धातूनामिहेङ्()विधीयते।
दरद्रातेरार्धधातुके "लोपः सिद्धश्च प्रत्ययविधौ" इति वचनात्? प्रागेव प्रत्ययोत्पत्तेराकारो लुप्त इतीडागमोऽस्मान्निमित्ताभावान्न भवति।
क्रियतां नामाद्ग्रहणम्(), घसिग्रहणं न कत्र्तव्यमिति, अस्य द्विर्वचने कृते "घसिभसोहंलि च" (६।४।
१००) इत्युपधालोपे कृते चैकाच इत्येवं सिद्ध इडागमः? इत्याह--"घसेरपि" इत्यादि। "अनच्कत्वात्()" इति। द्विर्वचनाभावहेतुः। एकाचो द्विर्वचनमुच्यते; "एकाचः"
६।१।१ इत्यधिकारात्()। तस्मादुपधालोपे कृतेऽनच्कत्वान्न द्विर्वचनं स्यात्(), ततश्च जक्षिवानिति न सिध्यतीत्यभिप्रायः।
अथ क्रियमाणेऽपि घसिग्रहणे कस्मादेव दोषो व भवति? इत्याह--"क्रियमाणे" ["नास्ति काशिकायाम्()। पदमञ्जर्यां तु "क्रियमाणे तु" इति प्रतीकमुपलभ्यते] इत्यादि। सुबोधम्()॥